II बुधकवचं II
II अथ श्रीबुधकवचं II II श्री गणेशाय नमः II अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः II
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I पितांबरधरः पातु पितमाल्यानुलेपनः II १ II
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II ३ II
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II ४ II
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II ५ II
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II ६ II
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II
© Copyright 2020 Sarvang Jyotish Darshan Vikash Samiti Trust, Varanasi | Powered by : Max Multisoft